Class 7th sanskrit varshik paper 2026 answer imp.

राज्य शिक्षा केन्द्र म. प्र. भोपाल

वार्षिक मूल्यांकन सत्र – 2025-26

विषय – संस्कृत (तृतीय भाषा)


समय- 2 ½ घण्टे
कक्षा-7
पूर्णांक- 60

बहुविकल्पीयप्रश्नाः (प्रश्न क्र. 1-5)
निर्देश- उचितं विकल्पं चित्वा लिखत। प्रत्येक प्रश्नस्य कृते 1 अङ्कः निर्धारितः अस्ति।
प्रश्न-1 चन्द्रः पूर्णतां प्राप्नोति-
(A) अमावास्याम्
(B) पूर्णिमायाम्
(C) अष्टम्याम्
(D) सप्तम्याम्
1
उत्तरम्: (B) पूर्णिमायाम्
प्रश्न-2 प्राणार्पणेन देशरक्षां कुर्वन्ति –
(A) सैनिकाः
(B) शिक्षिकाः
(C) नेतारः
(D) गायकाः
1
उत्तरम्: (A) सैनिकाः
प्रश्न-3 प्राचीनवेदः अस्ति-
(A) यजुर्वेदः
(B) सामवेदः
(C) ऋग्वेदः
(D) अथर्ववेदः
1
उत्तरम्: (C) ऋग्वेदः
प्रश्न-4 परोपकारः भवति –
(A) पापाय
(B) लोभाय
(C) विवादाय
(D) पुण्याय
1
उत्तरम्: (D) पुण्याय
प्रश्न-5 ‘हसामि’ इति पदे धातुः अस्ति-
(A) हश्
(B) हस्
(C) हाश्
(D) हशि
1
उत्तरम्: (B) हस्
रिक्तस्थानानि (प्रश्न क्र. 6-10)
निर्देश- उचित-शब्दैः रिक्तस्थानानि पूरयत। प्रत्येक प्रश्नस्य कृते 1 अङ्कः निर्धारितः अस्ति।
प्रश्न-6 गुफामन्दिरे प्रतिवर्षम् ……………………………….. मासे प्रत्येकसोमवासरे मेलापकः भवति।
1
उत्तरम्: श्रावण
प्रश्न-7 परोपकारः ……………………………….. भवति।
1
उत्तरम्: पुण्याय
प्रश्न-8 पतञ्जलिः शरीरस्वास्थ्यार्थम् ……………………………….. अरचयत्।
1
उत्तरम्: योगसूत्रम्
प्रश्न-9 सुलभा योगं ………………………………..।
1
उत्तरम्: करोति
प्रश्न-10 सूर्यः इत्यस्य पदस्य पर्यायवाचि शब्दः ……………………………….. अस्ति।
1
उत्तरम्: भानुः (अथवा रविः / दिनकरः)
अतिलघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 11-16)
निर्देश- अधोलिखितप्रश्नानाम् एकपदेन उत्तरं लिखत। प्रत्येकप्रश्नस्य कृते 2 अङ्कः निर्धारितः अस्ति।
प्रश्न-11 श्रावणभाद्रपदयोः कः ऋतुः भवति?
2
उत्तरम्: वर्षा (वर्षा ऋतुः)
प्रश्न-12 सप्ताहे दिनानि भवन्ति?
2
उत्तरम्: सप्त (सप्ताहे सप्त दिनानि भवन्ति)
प्रश्न-13 नद्याम् मोहनः कथम् तरति?
2
उत्तरम्: प्रयत्नेन (अथवा तरणविद्यया)
प्रश्न-14 कदा संस्कृतदिवसः आयोज्यते?
2
उत्तरम्: श्रावणपूर्णिमायां (श्रावण मास की पूर्णिमा को)
प्रश्न-15 किं सर्वत्र वर्जयेत्?
2
उत्तरम्: अतिम् (अति सर्वत्र वर्जयेत्)
प्रश्न-16 दुर्मुखः नाम कस्य आसीत्?
2
उत्तरम्: सिंहस्य (शेर का)
लघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 17-22)
निर्देश- अधोलिखित प्रश्नानाम् एकवाक्येन उत्तरं लिखत। प्रत्येक प्रश्नस्य कृते 3 अङ्कः निर्धारितः अस्ति।
प्रश्न-17 संस्कृतभाषायाः पञ्चकवीनां नामानि लिखत।
3
उत्तरम्: संस्कृतभाषायाः पञ्चकवीनां नामानि सन्ति— कालिदासः, भासः, भारविः, बाणभट्टः, भवभूतिः च।
प्रश्न-18 तिलकेन कः ग्रन्थः रचितः?
3
उत्तरम्: तिलकेन ‘गीतारहस्यम्’ नामकः ग्रन्थः रचितः।
प्रश्न-19 छात्रजीवने देशसेवायाः मार्गौ कौ स्तः?
3
उत्तरम्: छात्रजीवने देशसेवायाः द्वौ मार्गौ स्तः – राष्ट्रीय-छात्र-सेना (N.C.C.) तथा राष्ट्रीय-सेवा-योजना (N.S.S.) च।
प्रश्न-20 निर्देशानुसारम् उत्तरं लिखत-
(अ) ‘पठ्’ धातोः लट्लकार-प्रथमपुरुषस्य बहुवचनम् लिखत।
(ब) अधोलिखितेषु अव्ययम् नास्ति- (तत्र, अपि, च, बालकस्य)
(स) ‘उपहारः’ पदे उपसर्गः अस्ति।
3
उत्तरम्:
(अ) पठन्ति
(ब) बालकस्य
(स) उप
प्रश्न-21 अधोलिखितसंख्याः संस्कृते लिखत –
(अ) 17     (ब) 18     (स) 20
3
उत्तरम्:
(अ) 17 – सप्तदश
(ब) 18 – अष्टादश
(स) 20 – विंशतिः
प्रश्न-22 स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत यः अस्मिन् प्रश्नपत्रे नास्ति।
3
उत्तरम्:
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते॥
(छात्र अपनी पाठ्यपुस्तक का कोई भी याद किया हुआ श्लोक लिख सकते हैं।)
दीर्घ-उत्तरीय प्रश्नाः- (प्रश्न 23-26)
निर्देश- अधोलिखित प्रश्नानाम् उत्तरं लिखत। प्रत्येक प्रश्नस्य कृते 5 अङ्कः निर्धारितः अस्ति।
प्रश्न-23 कोष्ठकात् शब्दान् चित्वा पत्रपूर्तिं कुरुत-
( भ्रमणार्थम्, स्वास्थ्यम्, दशपुरनगरतः, रजनी, कुशलिनो )

………………………………
25 अगस्त 2025,
पूज्यमातः!
प्रणामाः
अहम् ईश्वरस्य कृपया …………………… अस्मि। भवत्याः …………………… कथम् अस्ति? अहम् अस्मिन् मासे …………………… गमिष्यामि। आगामिमासे मम् परीक्षा भविष्यति। पितृचरणौ वन्दे।
भवत्याः पुत्री
………………………………
5
उत्तरम्:
दशपुरनगरतः
25 अगस्त 2025,
पूज्यमातः!
प्रणामाः
अहम् ईश्वरस्य कृपया कुशलिनो अस्मि। भवत्याः स्वास्थ्यम् कथम् अस्ति? अहम् अस्मिन् मासे भ्रमणार्थम् गमिष्यामि। आगामिमासे मम् परीक्षा भविष्यति। पितृचरणौ वन्दे।
भवत्याः पुत्री
रजनी
प्रश्न-24 अधोलिखितेषु एकस्मिन् विषये संस्कृते निबन्धं लिखत –
विद्यालयः, उद्यानम्, पुस्तकम्, धेनुः
5
उत्तरम्: (धेनुः विषय पर निबन्ध)
1. धेनुः अस्माकं माता अस्ति।
2. धेनोः चत्वारः पादाः, द्वे शृङ्गे, एकं पुच्छं च भवति।
3. धेनुः तृणं खादति।
4. धेनुः मधुरं दुग्धं ददाति।
5. गोमूत्रेण विविधानां रोगाणां नाशः भवति।
प्रश्न-25 अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत –
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये, हंसमध्ये बको यथा ।।
अ. का शत्रुः?
ब. वैरी कः भवति?
स. कुत्र न शोभते?
द. हंस मध्ये कः न शोभते?
ई. ‘शत्रुः’ शब्दस्य विलोमपदं लिखत।
5
उत्तरम्:
अ. माता शत्रुः।
ब. पिता वैरी भवति।
स. सभामध्ये न शोभते।
द. हंसमध्ये बकः न शोभते।
ई. शत्रुः शब्दस्य विलोमपदं ‘मित्रम्’ अस्ति।
प्रश्न-26 अधोलिखितं गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
‘दुर्मुखः तस्य कूपस्य जले स्वप्रतिबिम्बं पश्यति। सः स्वप्रतिबिम्बम् एव अपरं सिंह मत्वा गर्जति। तस्य गर्जनस्य प्रतिध्वनिः भवति। अतः कूपे अपरः सिंहः अस्ति इति विचिन्त्य सः कूपे कूर्दति मृत्युं च प्राप्नोति।’
अ. दुर्मुखः कूपस्य जले किं अपश्यत्?
ब. स्वप्रतिबिम्बम् एव अपरं सिंह मत्वा किं अकरोत्?
स. सिंहस्य गर्जनस्य का भवति?
द. सिंहः कथं मृत्युं प्राप्नोति?
ई. ‘कूपस्य’ इत्यस्मिन् पदे वचनं कारकं च लिखत।
5
उत्तरम्:
अ. दुर्मुखः कूपस्य जले स्वप्रतिबिम्बं अपश्यत्।
ब. स्वप्रतिबिम्बम् एव अपरं सिंह मत्वा सः गर्जति।
स. सिंहस्य गर्जनस्य प्रतिध्वनिः भवति।
द. ‘कूपे अपरः सिंहः अस्ति’ इति विचिन्त्य सः कूपे कूर्दति मृत्युं च प्राप्नोति।
ई. ‘कूपस्य’ पदे एकवचनं, सम्बन्ध कारकम् (षष्ठी विभक्तिः) च अस्ति।

Disclaimer – ऊपर दिया गया प्रश्न को महत्वपूर्ण प्रश्न और जो अक्सर परीक्षा में पूछे जाते है वह बताए गए है। इस पेपर को रियल पेपर न समझे लेकिन रियल पेपर का सही उत्तर के साथ पेपर इसी website पर answer के साथ अपलोड किया जाएगा। इस लिए प्रत्येक update और अपलोड होने पर आपको notification आए तो नीचे दिए गए WhatsApp और telegram चैनल को ज्वाइन करें।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment