class 6th sanskrit varshik paper 2026 answer imp.

राज्य शिक्षा केन्द्र म. प्र. भोपाल

वार्षिक मूल्यांकन सत्र 2025-26

विषय-संस्कृत (तृतीय भाषा)


समय- 2 ½ घण्टे
कक्षा – 6
पूर्णांक- 60

बहुविकल्पीयप्रश्नाः (प्रश्न क्र. 1-5)
निर्देश- उचितं विकल्पं चित्वा लिखत। प्रत्येक प्रश्नस्य कृते 1 अङ्कः निर्धारितः अस्ति।
प्रश्न-1 ‘फलानि’ इत्यस्य पदे लिङ्गम् अस्ति –
(A) पुल्लिङ्गम्
(B) स्त्रीलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) एतेषु कीमऽपि न
1
उत्तरम्: (C) नपुंसकलिङ्गम्
प्रश्न-2 वाल्मीकि रामायणकथा लिखितम् अस्ति-
(A) हिन्दीभाषायाम्
(B) संस्कृतभाषायाम्
(C) आङ्ग्लभाषायाम्
(D) तमिळभाषायाम्
1
उत्तरम्: (B) संस्कृतभाषायाम्
प्रश्न-3 चरामः लोकसेवार्थं निरन्तरम् –
(A) प्रचलामो
(B) धीराः
(C) निर्भया
(D) वयं
1
उत्तरम्: (D) वयं
(वयं धीराः वयं वीराः चरामः लोकसेवार्थं निरन्तरम्)
प्रश्न-4 अनेके शैक्षिकाः कार्यक्रमाः प्रसारिताः भवन्ति-
(A) रडारयन्त्रेण
(B) आकाशवाणीयन्त्रेण
(C) रॉकेटयन्त्रेण
(D) हिमशीतकेन
1
उत्तरम्: (B) आकाशवाणीयन्त्रेण
प्रश्न-5 बहुवचनस्य शब्दः अस्ति-
(A) चलामि
(B) चलति
(C) चलिष्यामः
(D) चलसि
1
उत्तरम्: (C) चलिष्यामः
रिक्तस्थानानि (प्रश्न क्र. 6-10)
निर्देश- उचित-शब्दैः रिक्तस्थानानि पूरयत। प्रत्येक प्रश्नस्य कृते 1 अङ्कः निर्धारितः अस्ति।
प्रश्न-6 ग ……………………………….. शः।
1
उत्तरम्: णे (गणेशः)
प्रश्न-7 अमित्रस्य कुतो……………………………….. ।
1
उत्तरम्: सुखम्
प्रश्न-8 सिंहः ……………………………….. गर्जति।
1
उत्तरम्: उच्चैः
प्रश्न-9 श्रम एव जयति इति ……………………………….. वाक्यम्।
1
उत्तरम्: ध्येय
प्रश्न-10 सा फलं ……………………………….. । (वर्तमानकालस्य क्रिया)
1
उत्तरम्: खादति
अतिलघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 11-16)
निर्देश- अधोलिखितप्रश्नानाम् एकपदेन उत्तरं लिखत। प्रत्येकप्रश्नस्य कृते 2 अङ्कः निर्धारितः अस्ति।
प्रश्न-11 कः उच्चैः गर्जति ?
2
उत्तरम्: सिंहः
प्रश्न-12 कस्मिन् मासे स्वतन्त्रतादिवसः भवति?
2
उत्तरम्: अगस्तमासे
प्रश्न-13 धारा नाम्नी नगरी कस्मिन् प्रदेशे स्थिता ?
2
उत्तरम्: मध्यप्रदेशे
प्रश्न-14 वयं कान् दण्डयिष्यामः?
2
उत्तरम्: दुर्जनान्
प्रश्न-15 पात्रत्वाद् किं आप्नोति ?
2
उत्तरम्: धनम् (धनमाप्नोति)
प्रश्न-16 ‘शिवालय’ शब्दस्य प्रथमा विभक्तिः एकवचनं भवति।
2
उत्तरम्: शिवालयः
लघु-उत्तरीयप्रश्नाः (प्रश्न क्र. 17-22)
निर्देश- अधोलिखित प्रश्नानाम् एकवाक्येन उत्तरं लिखत। प्रत्येक प्रश्नस्य कृते 3 अङ्कः निर्धारितः अस्ति।
प्रश्न-17 का कार्यसाधिका भवति?
3
उत्तरम्: संहतिः कार्यसाधिका भवति। (एकता ही कार्य को सिद्ध करने वाली होती है।)
प्रश्न-18 संस्कृतं केषां भाषा अस्ति ?
3
उत्तरम्: संस्कृतं देवानां (देव) भाषा अस्ति।
प्रश्न-19 भोजस्य नाम केन कारणेन प्रसिद्धम् ?
3
उत्तरम्: भोजस्य नाम विद्यानुरागेण (शिक्षाप्रेमेण) कारणेन प्रसिद्धम् अस्ति।
प्रश्न-20 निर्देशानुसार उत्तरं लिखत् –
(अ) धातुप्रत्ययं योजयित्वा शब्दनिर्माणं कुरुत- हस् + क्त्वा = ………………….
(ब) सन्धिविच्छेदं कुरुत – विद्यालयः
(स) ‘पठामि’ पदे पुरुषः अस्ति ।
3
उत्तरम्:
(अ) हस् + क्त्वा = हसित्वा
(ब) विद्या + आलयः = विद्यालयः (दीर्घ स्वर सन्धिः)
(स) ‘पठामि’ पदे उत्तमपुरुषः अस्ति।
प्रश्न-21 अधोलिखितसंख्याः संस्कृते लिखत –
(अ) 5     (ब) 7     (स) 8
3
उत्तरम्:
(अ) 5 – पञ्च
(ब) 7 – सप्त
(स) 8 – अष्ट
प्रश्न-22 स्व पाठ्यपुस्तकात् एकं श्लोकं लिखत यः अस्मिन् प्रश्नपत्रे नास्ति ।
3
उत्तरम्:
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥
(छात्र अपनी पाठ्यपुस्तक का कोई भी याद किया हुआ श्लोक लिख सकते हैं।)
दीर्घ-उत्तरीय प्रश्नाः- (प्रश्न 23-26)
निर्देश- अधोलिखित प्रश्नानाम् उत्तरं लिखत। प्रत्येक प्रश्नस्य कृते 5 अङ्कः निर्धारितः अस्ति।
प्रश्न-23 अधोलिखितपदैः पत्रं पूरयत् –
( शक्नोमि, कार्यम्, अवकाशं, भावगढ़ग्रामम्, सुजानः )

सेवायाम्
श्रीमान प्रधानाचार्यः
शासकीय माध्यमिक विद्यालयः …………………………..

महोदयः
विनम्र- निवेदनम् अस्ति । यत् मम गृहे अद्य आवश्यकं …………………… अस्ति ।
अतः अहम् विद्यालयम् आगन्तुम् न …………………… । अतः एकदिवसस्य…………………… स्वीकरोतु ।

भवतः आज्ञाकारी
शिष्यः ……………………
कक्षा- षष्ठी
5
उत्तरम्:
सेवायाम्
श्रीमान प्रधानाचार्यः
शासकीय माध्यमिक विद्यालयः भावगढ़ग्रामम्

महोदयः
विनम्र- निवेदनम् अस्ति । यत् मम गृहे अद्य आवश्यकं कार्यम् अस्ति ।
अतः अहम् विद्यालयम् आगन्तुम् न शक्नोमि । अतः एकदिवसस्य अवकाशं स्वीकरोतु ।

भवतः आज्ञाकारी
शिष्यः सुजानः
कक्षा- षष्ठी
प्रश्न-24 चित्रं दृष्ट्वा अधोलिखित- पदैः वाक्यानि रचयत-
[ यहाँ चित्र दिया गया है: एक बगीचे में बच्चे खेल रहे हैं, तालाब है, पेड़ हैं और पक्षी उड़ रहे हैं ]
अ. तडागः
ब. वृक्षः
स. उद्यानम्
द. बालकाः
ई. खगाः
5
उत्तरम्:
अ. उद्याने एकः तडागः अस्ति।
ब. तडागस्य समीपे एकः वृक्षः अस्ति।
स. इदम् एकं सुन्दरं उद्यानम् अस्ति।
द. उद्याने बालकाः क्रीडन्ति।
ई. आकाशे खगाः उत्पतन्ति।
प्रश्न-25 अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत्-
‘सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
शोभते न विना विद्यां, विद्या सर्वस्य भूषणम् ।।’
अ. विद्या कस्य भूषणम्?
ब. का सर्वस्य भूषणम्?
स. के न विना विद्या?
द. कः महाधनः ?
ई. ‘सुन्दरोऽपि’ इत्यस्य पदस्य संधि- नाम लिखत।
5
उत्तरम्:
अ. विद्या सर्वस्य भूषणम्।
ब. विद्या सर्वस्य भूषणम्।
स. विद्यां विना न शोभते। (विद्या के बिना मनुष्य शोभा नहीं देता)
द. सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः (विद्यां विना न शोभते)।
ई. सुन्दरोऽपि = सुन्दरः + अपि (पूर्वरूप सन्धिः / विसर्ग सन्धिः)।
प्रश्न-26 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत –
‘सिक्खधर्मस्य प्रवर्तकः गुरुनानक देवः पञ्जाबप्रान्ते अभवत् । एकदा सः धर्मप्रचारार्थम् एकं ग्रामम् अगच्छत् । तत्र एकः श्रमिकः गुरुं दृष्ट्वा स्वागतम् अकरोत् एव च भोजनार्थं रोटिकाः समर्पयत् ।’
अ. सिक्खधर्मस्य प्रवर्तकः कः ?
ब. गुरुनानकदेवः कस्मिन् प्रान्ते अभवत् ?
स. श्रमिकः काः समर्पितवान् ?
द. गुरुनानकः किमर्थं ग्रामम् अगच्छत्?
ई. ‘दृष्ट्वा’ इत्यस्मिन् पदे धातुं प्रत्ययं च पृथक् कुरुत।
5
उत्तरम्:
अ. सिक्खधर्मस्य प्रवर्तकः गुरुनानक देवः अभवत्।
ब. गुरुनानकदेवः पञ्जाबप्रान्ते अभवत्।
स. श्रमिकः भोजनार्थं रोटिकाः समर्पितवान्।
द. गुरुनानकः धर्मप्रचारार्थम् एकं ग्रामम् अगच्छत्।
ई. दृष्ट्वा = दृश् (धातु) + क्त्वा (प्रत्यय)।
WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment