mp board 10th sanskrit varshik paper 2026 Set d , यहां देखें उत्तर के साथ

Sanskrit Question Paper 2026 (Set D) – Full Solution
Roll No. ____________ Code: 261669_D

हाईस्कूल परीक्षा / High School Examination

(मुख्य / Main) वर्ष / Year – 2026

संस्कृत / SANSKRIT

SET D
निर्देशाः :
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।
(iii) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि।
1. प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत – (1×6=6)
मञ्जूषा: (सुलभः, मुखम्, दानवाय, भानुः, नीलः, पुत्रः)
(i) ‘सूर्यः’ इत्यस्य पर्यायपदं ________ अस्ति।
उत्तर: भानुः
(ii) ‘तनयः’ इत्यस्य पर्यायपदं ________ अस्ति।
उत्तर: पुत्रः
(iii) ‘दुर्लभः’ इत्यस्य पदस्य विलोम पदं ________ अस्ति।
उत्तर: सुलभः
(iv) ‘मानवाय’ इत्यस्य पदस्य विलोम पदं ________ अस्ति।
उत्तर: दानवाय
(v) ‘नीलःकण्ठः’ इत्यस्मिन् पदयोः विशेषणं पदं ________ अस्ति।
उत्तर: नीलः
(vi) ‘कमलम् इव मुखम्’ इत्यस्मिन् पदयोः विशेष्य पदं ________ अस्ति।
उत्तर: मुखम्
2. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षम् ‘न’ इति लिखत – (1×6=6)
(i) ‘शृणोति’ पदे एकवचनम् अस्ति।
उत्तर: आम्
(ii) ‘पचति’ पदे लोट् लकारः अस्ति।
उत्तर: न (लट् लकारः अस्ति)
(iii) ‘गच्छति’ पदे प्रथम पुरुषः अस्ति।
उत्तर: आम्
(iv) ‘लिखामि’ पदे लिख् धातुः नास्ति।
उत्तर: न (लिख् धातुः एव अस्ति)
(v) ‘प्राचार्यः’ पदे आचार्यः उपसर्गः अस्ति।
उत्तर: न (‘प्र’ उपसर्गः अस्ति)
(vi) ‘अनुशासनम्’ पदे अनु उपसर्गः अस्ति।
उत्तर: आम्
3. युग्ममेलनं कुरुत – (1×6=6)
स्तम्भ (अ)स्तम्भ (ब)
(i) हिमालयः(क) सदाचारः
(ii) अन्य + उक्तयः(ख) आहारस्य अभावः
(iii) व्यञ्जन सन्धिः(ग) पितरौ
(iv) निराहारम्(घ) अन्योक्तयः
(v) अनुरूपम्(ङ) दीर्घ स्वर सन्धिः
(vi) द्वन्द्व-समासः(च) अव्ययीभाव समासः
(i) हिमालयः -> (ङ) दीर्घ स्वर सन्धिः (ii) अन्य + उक्तयः -> (घ) अन्योक्तयः (iii) व्यञ्जन सन्धिः -> (क) सदाचारः (iv) निराहारम् -> (ख) आहारस्य अभावः (v) अनुरूपम् -> (च) अव्ययीभाव समासः (vi) द्वन्द्व-समासः -> (ग) पितरौ
4. एकपदेन उत्तरं लिखत – (1×6=6)
(i) मनुष्याणां महान् रिपुः कः?
उत्तर: आलस्यम्
(ii) सर्वदा सर्वकार्येषु का बलवती?
उत्तर: बुद्धिः
(iii) जननी कीदृशी भवति?
उत्तर: तुल्यवत्सला
(iv) ‘गत्वा’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
उत्तर: क्त्वा
(v) ‘हस्+तुमुन्’ संयुज्य किं पदं भविष्यति?
उत्तर: हसितुम्
(vi) ‘वर्तमानः’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
उत्तर: शानच्
5. उचितं विकल्पं चित्वा लिखत – (1×6=6)
(i) ‘राजन्’ शब्दस्य चतुर्थी विभक्तेः रूपम् अस्ति –
(अ) राजानौ (ब) राज्ञे (स) राजसु (द) राजानम्
उत्तर: (ब) राज्ञे
(ii) ‘बालकः’ इत्यस्मिन् पदे विभक्तिः अस्ति –
(अ) सप्तमी (ब) प्रथमा (स) तृतीया (द) षष्ठी
उत्तर: (ब) प्रथमा
(iii) ‘लतासु’ इत्यस्मिन् पदे वचनम् अस्ति –
(अ) बहुवचनम् (ब) द्विवचनम् (स) एकवचनम् (द) अन्यवचनम्
उत्तर: (अ) बहुवचनम्
(iv) ‘अस्मद्’ शब्दस्य प्रथमा विभक्तेः रूपम् अस्ति –
(अ) मया (ब) मत् (स) आवयोः (द) वयम्
उत्तर: (द) वयम्
(v) ‘अहं श्वः वाराणसीं गमिष्यामि’ इत्यस्मिन् वाक्ये अव्ययं पदम् अस्ति –
(अ) श्वः (ब) वाराणसीं (स) गमिष्यामि (द) अहं
उत्तर: (अ) श्वः
(vi) अधोलिखितेषु शब्देषु अव्ययं पदम् नास्ति –
(अ) यत्र (ब) तत्र (स) सर्वत्र (द) रामः
उत्तर: (द) रामः
लघुउत्तरीय प्रश्नाः (Short Answer Questions)
6. उदयसमये अस्तसमये च कः रक्तः भवति?
अथवा (OR)
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
(1) उदयसमये अस्तसमये च सविता (सूर्यः) रक्तः भवति। (2) बकः वराकान् मीनान् क्रूरतया भक्षयति।
7. सरसः शोभा केन भवति?
अथवा (OR)
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
(1) सरसः शोभा एकेन राजहंसेन भवति। (2) अत्र धरातले जीवितं दुर्वहं जातम्, अतः कविः प्रकृतेः शरणम् इच्छति।
8. तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?
अथवा (OR)
बालभावात् हिमकरः कुत्र विराजते?
(1) तपोवनवासिनः कुशस्य मातरं ‘देवी’ इति नाम्ना आह्वयन्ति। (2) बालभावात् हिमकरः पशुपतिमस्तके (शिवस्य मस्तके) विराजते।
9. कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर: काकः वातावरणं कर्कशध्वनिना आकुलीकरोति।
10. अधोलिखितानि वाक्यानि कः कं प्रति कथयति – (कोऽपि द्वे)
(i) रे रे धूर्त! त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
(ii) सव्यवधानं न चारित्र्यलोपाय।
(iii) भोः गज! मामप्येवमेवातुदन् एते वानराः।
(i) बुद्धिमती -> शृगालम् (जम्बुकम्) प्रति (ii) रामः -> लवकुशौ प्रति (iii) वानरः -> गजम् प्रति
11. रिक्तस्थानानि पूरयत – (कोऽपि चत्वारि)
मञ्जूषा (बहिः, एव, पिकः, आत्मश्लाघाहीनः, अपि)
(i) भूकम्पित-समये ……………….. गमनमेव उचितं भवति।
(ii) पर्यावरणस्य संरक्षणम् ……………….. प्रकृतेः आराधना।
(iii) ……………….. परभृत् अपि कथ्यते।
(iv) उलूकः ……………….. पदनिर्लिप्तः चासीत्।
(v) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् ……………….. लाभदायकं भवति।
(i) बहिः (ii) एव (iii) पिकः (iv) आत्मश्लाघाहीनः (v) अपि
12. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत –
(i) यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्।
(ii) अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
(iii) तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(iv) ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’।
सही क्रम (Correct Order): 1. (iv) ‘निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा’। 2. (iii) तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। 3. (i) यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। 4. (ii) अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
13. स्वपाठ्यपुस्तकस्य सुभाषितं लिखत
प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य एकं सुभाषितं लिखत।
(उदाहरणार्थम्) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
14. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत – (कोऽपि द्वे)
(i) पुत्रं दृष्टुं सः प्रस्थितः।
(ii) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
(iii) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(i) कम् दृष्टुं सः प्रस्थितः? (ii) उद्याने केषाम् कलरवं चेतः प्रसादयति? (iii) कुत्र (केषु) वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति?
15. वाच्यपरिवर्तनं कुरुत – (कोऽपि द्वे)
(i) सः फलं खादति। (कर्मवाच्ये)
(ii) मया ग्रन्थः पठितः। (कर्तृवाच्ये)
(iii) वयं गुरुम् पूजितवन्तः। (कर्मवाच्ये)
(i) तेन फलं खाद्यते। (ii) अहं ग्रन्थं पठितवान् (पठामि)। (iii) अस्माभिः गुरुः पूजितः।
16. अशुद्धकारकवाक्यानां शुद्धिः करणीया – (कोऽपि द्वे)
(i) सः पठामि।
(ii) पिता पुत्रम् सह गच्छति।
(iii) रामम् नमः।
(i) सः पठति। (अथवा – अहं पठामि।) (ii) पिता पुत्रेण सह गच्छति। (‘सह’ योगे तृतीया) (iii) रामाय नमः। (‘नमः’ योगे चतुर्थी)
17. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
“अस्ति देउलाख्यो ग्रामः। तत्र राजसिंह: नाम राजपुत्र: वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्र्यात् पुत्रौ चपेटया प्रहृत्य जगाद – कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?”
प्रश्ना: –
(i) सा गहनकानने किं ददर्श?
(ii) राजपुत्रस्य नाम किम्?
(iii) बुद्धिमती कया पुत्रौ प्रहृतवती?
(i) सा गहनकानने एकं व्याघ्रं ददर्श। (ii) राजपुत्रस्य नाम राजसिंहः आसीत्। (iii) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
18. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
कुशलवौ – (राममुपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मद्दर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनमेव, न पुनरतिथि-जन-समुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो! हृदयग्राही स्पर्शः।
प्रश्ना: –
(i) अहो! कीदृशः स्पर्शः?
(ii) कम् उपसृत्य प्रणम्य च?
(iii) कस्य अपि कुशलम्?
(i) अहो! हृदयग्राही स्पर्शः। (ii) रामम् उपसृत्य प्रणम्य च। (iii) महाराजस्य (रामस्य) अपि कुशलम्?
19. अपठित-गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
“अमर्त्यसेनस्य जन्म शान्तिनिकेतने अभवत्। तस्य मातामहः क्षितीशमोहनसेनः इति नाम्ना प्रसिद्धः। गुरुदेवेन तस्य नाम ‘अमर्त्य’ इति चित्तम्… शान्तिनिकेतने वसन् अमर्त्यसेनः संस्कृताभ्यासं कृतवान्।”
प्रश्ना: –
(i) अमर्त्यसेनस्य मातामहस्य नाम किम् आसीत्?
(ii) अमर्त्यसेनस्य नाम केन चित्तम्?
(iii) कुत्र वसन् अमर्त्यसेनः संस्कृताभ्यासं कृतवान्?
(iv) कस्य शब्दस्य अर्थपरिवर्तनं न भवति?
(i) अमर्त्यसेनस्य मातामहस्य नाम क्षितीशमोहनसेनः आसीत्। (ii) अमर्त्यसेनस्य नाम गुरुदेवेन चित्तम्। (iii) शान्तिनिकेतने वसन् अमर्त्यसेनः संस्कृताभ्यासं कृतवान्। (iv) ‘अमर्त्य’ शब्दस्य अर्थपरिवर्तनं न भवति।
20. पत्रलेखनम्
भवतः नाम विनोदः। भवान् अस्वस्थः। अतः दिनत्रयस्य कृते स्वप्राचार्यम् प्रति अवकाशार्थम् आवेदनपत्रम् लिखत।
अथवा (OR)
भवतः विवाहः 8-05-2026 दिनाङ्के सुनिश्चितः। भवतः मित्रं अशोक कुमारः दिल्लीनगरे निवसति। अतः स्वमित्रस्य कृते विवाहे आमन्त्रयितुम् एकम् पत्रं लिखत।
सेवायाम्, श्रीमन्तः प्राचार्य महोदयाः, शासकीय उच्चतर माध्यमिक विद्यालयः, नगरम् (म.प्र.) विषयः – अवकाशार्थं प्रार्थनापत्रम्। महोदयाः, सविनयं निवेदनम् अस्ति यत् अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। कृपया मह्यं दिनत्रयस्य अवकाशं यच्छन्तु इति प्रार्थना। दिनाङ्कः – ……. भवदीयः आज्ञाकारी शिष्यः नाम – विनोदः कक्षा – दशमी
21. निबन्धलेखनम्
अधोलिखितेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत –
(i) आदिकविः वाल्मीकिः
(ii) सत्सङ्गतिः
(iii) भारतीया संस्कृतिः
(iv) पर्यावरणम्
(v) संस्कृतभाषायाः उपादेयता
संस्कृतभाषायाः उपादेयता (महत्त्वम्): 1. संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। 2. प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषायाः एव व्यवहारं कुर्वन्ति स्म। 3. कालांतरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णम् वर्तते। 4. सर्वे प्राचीनग्रन्थाः चत्वारो वेदाः च संस्कृतभाषायामेव सन्ति। 5. संस्कृतभाषा भारतस्य राष्ट्रिय एकतायाः आधारः अस्ति। 6. अस्याः व्याकरणं पूर्णतः वैज्ञानिकम् अस्ति। 7. ‘संस्कृतिः संस्कृताश्रिता’ इति उक्तिः प्रसिद्धा अस्ति। 8. संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी अस्ति। 9. भारतस्य गौरवाय संस्कृतभाषायाः ज्ञानम् आवश्यकम् अस्ति। 10. अत: एव अस्माभिः संस्कृतम् अवश्यमेव पठनीयम्।

1 thought on “mp board 10th sanskrit varshik paper 2026 Set d , यहां देखें उत्तर के साथ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top