mp board 10th SANSKRIT varshik paper questions 2026 एमपी बोर्ड कक्षा दसवीं संस्कृत वार्षिक परीक्षा पेपर 19 फरवरी 2026 को लिया जाएगा जिसका विषय कोड 512 होगा चलिए इस पेपर के लिए एक प्रश्न पत्र नीचे बताते हैं जो की परीक्षा में अक्सर पूछे जाते हैं.
हाईस्कूल परीक्षा / High School Examination
(मुख्य / Main) वर्ष / Year – 2026
संस्कृत (SANSKRIT)
निर्देशाः :
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः ।
(iii) प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः ।
(iii) प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।
1. उचितं विकल्पं चित्वा लिखत ।
1×6=6
(क) ‘रामस्य’ इत्यस्मिन् पदे विभक्तिः अस्ति।
(ख) ‘कवि’ शब्दस्य द्वितीया विभक्तेः बहुवचनस्य रूपम् अस्ति।
(ग) ‘पित्रा’ इत्यस्मिन् पदे वचनम् अस्ति।
(घ) षष्ठी विभक्तिः एकवचनं शब्दरूपं अस्ति।
(ङ) अधोलिखितेषु अव्ययं नास्ति ।
(च) ‘पशुना अपि उदीरितः अर्थः गृह्यते’ अस्मिन् वाक्ये अव्ययम् अस्ति।
2. रिक्तस्थानपूर्ति कुरुत।
1×6=6
(क) ‘नेष्यामः’ इत्यस्मिन् पदे …………………… धातुः अस्ति। (नी/नम्)
(ख) ‘घ्नन्ति’ इत्यस्मिन् पदे …………………… वचनम् अस्ति। (बहुवचनं / एकवचनं)
(ग) ‘वर्धताम्’ इत्यस्मिन् पदे …………………… पुरुषः अस्ति।(मध्यमपुरुषः / प्रथमपुरुषः)
(घ) ‘गच्छानि’ इत्यस्मिन् पदे …………………… लकारः अस्ति। (लट/लोट्)
(ङ) ‘अधिकारः’ इत्यस्मिन् पदे …………………… उपसर्गः अस्ति। (अधि/अ)
(च) ‘सम्’ उपसर्गः + ‘कृत’ योगे …………………… भवति। (समकृत / संस्कृत)
3. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्ष ‘न’ इति लिखत।
1×6=6
(क) ‘उत्+ ज्वलः’ इत्यस्य संधिः उज्ज्वलः अस्ति ।
(ख) दीर्घसंधी: उदाहरणम् सैव अस्ति।
(ग) ‘प्रत्येकः’ इत्यस्य संधि विच्छेदः ‘प्रति+एकः’ अस्ति ।
(घ) ‘शिवोवन्द्यः’ अस्मिन् पदे हल् संधि अस्ति।
(ङ) ‘बहुव्रीहिः’ समासस्य उदाहरणं दिगम्बरः अस्ति ।
(च) ‘अनुरूपम्’ पदस्य समासविग्रहः ‘रूपस्य योग्यम्’ भवति।
4. युग्ममेलनं कुरुत।
1×6=6
(क)
(क) ‘सलिलम्’ पर्याय पदं
(ख) ‘समरूपः’ विशेष्य पदं
(ग) ‘वृषभम्’ विशेषण पदं
(घ) ‘शीघ्रम्’ पर्याय पदं
(ङ) ‘प्रसीदति’ विलोम पदं
(च) ‘सम्पन्नम्’ विलोम पदं
(क) ‘सलिलम्’ पर्याय पदं
(ख) ‘समरूपः’ विशेष्य पदं
(ग) ‘वृषभम्’ विशेषण पदं
(घ) ‘शीघ्रम्’ पर्याय पदं
(ङ) ‘प्रसीदति’ विलोम पदं
(च) ‘सम्पन्नम्’ विलोम पदं
(ख)
(i) आर्द्रता
(ii) द्रुतम्
(iii) प्रवासः
(iv) विपन्नम्
(v) प्रकुप्यति
(vi) दुर्बलम्
(vii) जलम्
(viii) कुटुम्ब वृत्तान्तः
(i) आर्द्रता
(ii) द्रुतम्
(iii) प्रवासः
(iv) विपन्नम्
(v) प्रकुप्यति
(vi) दुर्बलम्
(vii) जलम्
(viii) कुटुम्ब वृत्तान्तः
5. एकपदेन उत्तरं लिखत-
1×6=6
(i) ‘आदाय’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(ii) ‘कथयितुम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(iii) ‘पा + क्त्वा’ संयुज्य किम् पदं भविष्यति ?
(iv) अनिशं महानगरमध्ये किं प्रचलति ?
(v) दुर्बले सुते कस्याः अधिका कृपा भवति ?
(vi) पिता पुत्राय बाल्ये किं यच्छति ?
6. अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
अथवा
लोके महतो भयात् कः मुच्यते ?
2
7. रामः लवकुशौ कुत्र उपवेशयितुम् कथयति ?
अथवा
मातुः अधिका कृपा कस्मिन् भवति ?
2
8. वसन्तस्य गुणं कः जानाति ?
अथवा
मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?
2
9. निर्धनः जनः कथं वित्तम् उपार्जितवान् ?
अथवा
आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
2
10. पृथिव्याः स्खलनात् किं जायते ?
अथवा
सरसः शोभा केन भवति ?
2
11. रेखाङ्कित – पदमाधृत्य प्रश्ननिर्माणं कुरुत । (केचित् द्वे)
1×2=2
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
(ख) त्वं मानुषात् बिभेषि।
(घ) सर्वे प्रकृतिमातरं प्रणमन्ति ।
12. अधोलिखितानि वाक्यानि कः कं प्रति कथयति। (केचित् द्वे)
1×2=2
(क) जानाम्यहं तस्य नामधेयम्।
(ख) तस्या द्वे नाम्नी।
(ग) सव्यवधानं न चारित्र्यलोपाय।
13. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् एकम् श्लोकम् लिखत।
2
14. अधोलिखितानां वाक्यानां अशुद्धकारकसंशोधनम् कुरुत। (केचित् द्वे)
1×2=2
(क) शिष्यः गुरुः प्रश्नं पृच्छति।
(ख) सः कर्णम् बधिरः अस्ति ।
(ग) हरि नमः।
15. समुचितपदेन रिक्तस्थानानि पूरयत।
½×4=2
(क) काकः …………………… भवति ।
(ख) …………………… परभृत् अपि कथ्यते।
(ग) मयूरः …………………… इति नाम्नाऽपि ज्ञायते।
(घ) …………………… हि शत्रुः प्रथमो नराणां ।
16. अधोलिखितानि वाक्यानि कथा क्रमानুসारेण योजयत। (केचित् चत्वारि)
½×4=2
(क) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(ख) गच्छ वत्से। सर्व भद्रं जायेत।
(ग) कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(घ) सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात।
(ङ) वृषभौ नीत्वा गृहमागत।
17. वाच्यपरिवर्तनं कुरुत। (केचित् द्वे)
1×2=2
(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) पशुः उदीरितम् अर्थम् गृह्णाति ।
18. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत।
1×3=3
कश्चित् कृषक बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुदन् अवर्तत। सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत् । तथापि वृषभः नोत्थितः ।
(क) कृषकः काभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ?
(ख) तयोः बलीवर्दयोः एकः कीदृशः आसीत् ?
(ग) ‘अकरोत्’ इत्यस्य पदस्य लकारं पुरुषं वचनम् च लिखत ।
अथवा
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। त्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत् । कदा स पिता तनूजस्य रूग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्थेन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
(क) एकदा स पिता कथं व्याकुलो जातः ?
(ख) किमर्थ स बसयानं विहाय पदातिरेव प्राचलत् ?
(ग) कः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् ?
19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत।
3
विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥
(क) के लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः ?
(ख) विद्वांस एव कुत्र चक्षुष्मन्तः प्रकीर्तिताः ?
(ग) केषां वदने चक्षुर्नामनी मत ?
अथवा
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥
(क) अयोग्यः कः नास्ति ?
(ख) कः तत्र दुर्लभः ?
(ग) अनौषधं किम् नास्ति ?
20. अधोलिखितं नाट्यांशं प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत ।
1×3=3
लवः – भगवान् सहस्रदीधितिः ।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम् ?
लवः – भ्रातरावावां सोदर्यौ।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते । किं नामधेयम् ?
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम् ?
लवः – भ्रातरावावां सोदर्यौ।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते । किं नामधेयम् ?
(क) कौ आवां सोदर्यौ ?
(ख) कथं शरीरसन्निवेशः ?
(ग) आवां कौ ?
अथवा
काकः- रे परभृत् ! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः ।
गजः- समीपतः एवागच्छन् अरे ! अरे! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः, कोऽपि, वन्यपशून् तु… पराक्रमी। अतः अहमेव योग्यः वनराजपदाय ।
गजः- समीपतः एवागच्छन् अरे ! अरे! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः, कोऽपि, वन्यपशून् तु… पराक्रमी। अतः अहमेव योग्यः वनराजपदाय ।
(क) करुणापरः पक्षिसम्राट कः अस्ति ?
(ख) अहं विशालकायः बलशाली, पराक्रमी च” इति कः अवदत् ?
(ग) ‘पोथयित्वा’ इत्यस्मिन् पदे कः प्रत्ययः ?
21. अधोलिखितम् अपठितं गद्यांशं प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत।
4
छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला व वर्तते। विद्याध्ययनाय छात्रः विद्यालयं गच्छति। सः सर्वविधं सुखं परित्यज्य अहर्निशं विद्याध्ययनं करोति। विद्यार्थी अल्पाहारी गृहत्यागी काकचेष्टावान् बकध्यानयुक्तः अल्पनिद्रालुश्च भवेत्। यथोक्तं केनापि कविना काकचेष्टा बकोध्यानं श्वान निद्रा तथैव च। अल्पहारी, गृहत्यागी विद्यार्थी पंच लक्षणं ।।
(क) मानजीवनस्य आधारशिला किम् अस्ति ?
(ख) छात्रः कुत्र गच्छति।
(ग) अस्य गद्यांशस्य शीर्षकं लिखत ।
(घ) विद्यार्थीजीवनस्य पञ्च लक्षणं लिखत।
22. स्वप्राचार्यस्य कृते अवकाशार्थम् एकं आवेदनपत्रम् संस्कृतभाषायां लिखत।
अथवा
स्वमित्रं प्रति एकं शुभकामनापत्रम् संस्कृतभाषायां लिखत ।
4
23. अद्योलिखितेषु एकं विषयं स्वीकृत्य संस्कृतभाषायां निबन्धं लिखत ।
4
Disclaimer – ऊपर दिए गया प्रश्न पत्र सिर्फ छात्रों के लिए महत्वपूर्ण प्रश्न ऑन और अभ्यास के लिए बताया गया है इसको रियल पेपर ना समझो जिस तरह इंग्लिश या अंग्रेजी विषय का पेपर का सॉल्यूशन बताया है सभी पेपर के सॉल्यूशन भी अपलोड किए जाएंगे यही से आप सॉल्यूशन देख सकते हैं. बाकी आप समझदार हैं और कोई सवाल आपके मन में है तो नीचे कमेंट कर पूछ सकते हो.
Sir real paper kab daloge
Kya yah real paper nhi hai