mp board 9th sanskrit varshik paper 2026

mp board 9th sanskrit varshik paper 2026 एमपी बोर्ड 9वीं संस्कृत वार्षिक पेपर 2026 नीचे वार्षिक पेपर संस्कृत का दिया गया है सही उत्तर के साथ अगर यह आपके school में नहीं आया तो हमारे व्हाट्सएप और टेलीग्राम चैनल पर सॉल्यूशन भेज दिया गया होगा।

Roll No. ……………………
935
935-169879
कक्षा 9वीं वार्षिक परीक्षा, 2025-26
[512]
SANSKRIT
संस्कृत
[Total No. of Questions: 23] [Time: 03 Hours]
[Total No. of Printed Pages: 08] [Maximum Marks: 75]
निर्देश: –
प्र.1 उचितं विकल्पं चित्वा लिखत – (1×6=6)
(क) ‘बालकम्’ इत्यस्मिन् पदे विभक्तिः अस्ति –
(i) प्रथमा
(ii) द्वितीया
(iii) चतुर्थी
(iv) पञ्चमी
(ख) ‘फलस्य’ इत्यस्मिन् पदे विभक्तिः अस्ति –
(i) प्रथमा
(ii) तृतीया
(iii) चतुर्थी
(iv) षष्ठी
(ग) ‘माता’ इत्यस्मिन् पदे विभक्तिः अस्ति –
(i) द्वितीया
(ii) प्रथमा
(iii) चतुर्थी
(iv) पञ्चमी
(घ) ‘भानु:’ इत्यस्मिन् पदे वचनम् अस्ति –
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) अन्यवचनम्
(ड) अधोलिखितेषु अव्ययपदम् अस्ति –
(i) अस्ति
(ii) कुत्र
(iii) फलम्
(iv) नदी
(च) ‘त्वं कुत्र गच्छसि?’ इत्यस्मिन् वाक्ये अव्ययम् अस्ति –
(i) त्वं
(ii) गच्छसि
(iii) कुत्र
(iv) कोऽपि न
प्र.2 कोष्ठकात् प्रदत्तैः शब्दैः उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत – (1×6=6)
(क) ‘प्राचार्यः’ इति पदे …………………… उपसर्गः अस्ति । (प्र / आचार्यः)
(ख) ‘सम्’ उपसर्गस्य उदाहरणं …………………… अस्ति । (संस्कृतम् / दिनम्)
(ग) ‘पठ्’ धातोः लट्लकारस्य प्रथम पुरुषस्य–एकवचने …………………… रूपं भविष्यति । (पठति / पठतः)
(घ) ‘हसामि’ इत्यस्मिन् पदे …………………… पुरुषः अस्ति । (प्रथमः / उत्तमः)
(ड) ‘पचति’ इत्यस्मिन् पदे …………………… धातुः अस्ति । (पत् / पच्)
(च) ‘गम्’ धातोः लृट्लकारस्य उदाहरणं …………………… अस्ति । (गच्छति / गमिष्यति)
प्र.3 युग्ममेलनं कुरुत – (1×6=6)
(क) हिमालयः(i) गुणस्वरसन्धिः
(ख) देवेन्द्रः(ii) विसर्गसन्धिः
(ग) मनोहरः(iii) द्वन्द्व समासः
(घ) रामलक्ष्मणौ(iv) कर्मधारयसमासः
(ड) घनश्यामः(v) अव्ययीभावः
(च) यथाशक्ति(vi) दीर्घस्वरसन्धिः
प्र.4 एकपदेन उत्तरं लिखत – (1×6=6)
(क) ‘हसित्वा’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
(ख) ‘पातुम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
(ग) ‘आदाय’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
(घ) सरसा: रसाला: कदा लसन्ति?
(ड) कुम्भकार: घटान् किमर्थं रचयति?
(च) तेजोमयी का भवति?
प्र.5 शुद्धवाक्यानां समक्षं ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत – (1×6=6)
(क) ‘खिन्न: बाल:’ इत्यस्मिन् वाक्ये विशेषणपदं ‘खिन्न:’ अस्ति ।
(ख) ‘पलायमानं श्वानम्’ इत्यस्मिन् वाक्ये विशेष्यं ‘पलायमानं’ पदं अस्ति ।
(ग) ‘सरस्वती’ इत्यस्य पदस्य पर्यायः ‘वाणी’ नास्ति ।
(घ) ‘भ्रमराणाम्’ इत्यस्य पदस्य पर्यायः ‘अलीनाम्’ अस्ति ।
(ड) ‘कठोरम्’ इत्यस्य पदस्य ‘मृदुम्’ विलोमपदं नास्ति ।
(च) ‘रोदितुम्’ इत्यस्य पदस्य ‘हसितुम्’ विलोमपदं अस्ति ।
(प्रश्न क्रमांक 6 त: 10 पर्यन्तं प्रश्नानाम्—उत्तराणि संस्कृतभाषायां पूर्णवाक्येन लिखत)
प्र.6 निर्धनाया: वृद्धाया: दुहिता कीदृशी आसीत्?(2)
अथवा
काल: कस्य रसं पिबति?
प्र.7 जन्तव: केन तुष्यन्ति?(2)
अथवा
सज्जनानां मैत्री कीदृशी भवति?
प्र.8 बाल: कदा क्रीडितुम् अगच्छत्?(2)
अथवा
देशान्तरं गन्तुमिच्छन् वणिकपुत्र: किं व्यचिन्तयत्?
प्र.9 अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?(2)
अथवा
जटायु: केन वामबाहुं दंशति?
प्र.10 स्वार्थान्ध: मानव: किं करोति?(2)
अथवा
सर्पि: किं भवति?
प्र.11 रेखाङ्कितपदानि—आधृत्य प्रश्ननिर्माणं कुरुत – (कौ द्वौ)(1×2=2)
(i) मोदकानि पूजानिमित्तानि रचितानि आसन् ।
(ii) खलानाम् मैत्री आरम्भगुर्वी भवति ।
(iii) स्वादूनि भक्ष्यकवलान् ते दास्यामि ।
प्र.12 अधोलिखितानि कथनानि क: कं प्रति कथयति लिखत – (कौ द्वौ)(1×2=2)
कथनानि क:/का कं/काम्
(i) भो महाशय! किमिदं विधीयते ।
(ii) तण्डुलान् मा भक्षय ।
(iii) अहं तुभ्यं तण्डुलमूल्यं दास्यामि ।
प्र.13 अधोलिखित वाक्यानां वाच्यपरिवर्तनं कुरुत – (कौ द्वौ)(1×2=2)
(i) रमेश: पाठं पठति। (कर्मवाच्ये)
(ii) लतया गीतं गीयते। (कर्तृवाच्ये)
(iii) स: हसति। (भाववाच्ये)
प्र.14 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् सुभाषितमेकं लिखत।(2)
प्र.15 अधोलिखितेषु अशुद्ध कारकवाक्यानां शुद्धं कुरुत –(कौ द्वौ)(1×2=2)
(i) श्री शिवं नम:।
(ii) सिंह: वनं वसति।
(iii) वृक्षं फलानि सन्ति।
प्र.16 प्रदत्तै: शब्दै: उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत –(केऽपि चत्वार:)(½×4=2)
(वृद्धा, प्रकृति:, सेतुं, मूषकै:, चतुरतम:, यत्नेन)
(i) अत एव अस्माभि:……………………रक्षणीया।
(ii) ग्रामे एका निर्धना……………………स्त्री न्यवसत्।
(iii) त्वदीया तुला……………………भक्षिता इति।
(iv) सिकताभि:……………………निर्मातुं प्रयतते।
(v) वृत्तं……………………संरक्षेद।
(vi) मल्लिका स्वपतिं……………………मन्यते।
प्र.17 प्रदत्तवाक्यानि पाठ्याधारितं घटनाक्रमानुसारं लिखत –(½×4=2)
(क) सा सखीभि: सह तीर्थयात्रायै काशी विश्वनाथमन्दिरं गच्छति।
(ख) उभौ नन्दिन्या: सर्वविधपरिचर्यां कुरुत:।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थं मोदकानि रचयति।
प्र.18 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –(1×3=3)
प्रकृति: समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधै: प्रकारै:, सुखसाधनै: च तर्पयति। पृथिवी, जलम्, तेज:, वायु:, आकाश: च अस्या: प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परित: समन्तात् लोक: अनेन इति पर्यावरणम्। यथा अजातशिशु: मातृगर्भे सुरक्षित: तिष्ठति तथैव मानव: पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवन सुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकोपै: आतङ्कितो जन: किं कर्तुं प्रभवति? जलप्लाविनै:, अग्निभयै:, भूकम्पै:, वात्याचक्रै:, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम्?
प्रश्ना: –
(क) प्रकृति: केषां संरक्षणाय यतते?
(ख) अस्या: कानि प्रमुखानि तत्त्वानि?
(ग) अजातशिशु: कुत्र सुरक्षित: तिष्ठति?
अथवा
तदा खिन्नो बालक: एते पक्षिणो मानुषेषु नोपगच्छन्ति। तद् अन्वेषयामि अपरं मानुषोचितम् विनोदयितारम् इति विचिन्त्य पलायमानं कमपि श्वानम् अवलोकयत्। प्रीतो बाल: तम् इत्थं संबोधयत् – रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? इदं प्रच्छायशीतलं तरुमूलम् आश्रयस्व। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुर: प्रत्यवदत् –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।
प्रश्ना: –
(क) एते पक्षिणो केषु नोपगच्छन्ति?
(ख) ‘रे मानुषाणां! मित्र!’ इति क: अवदत्?
(ग) पलायमानं कम् अवलोकयत्?
प्र.19 अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –(1×3=3)
पिबन्ति नद्य: स्वयमेव नाम्भ:
स्वयं न खादन्ति फलानि वृक्षा:।
नादन्ति सस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतय:।।
प्रश्ना: –
(क) का: स्वयमेव अम्भ: न पिबन्ति?
(ख) वृक्षा: स्वयं कानि न खादन्ति?
(ग) के सस्यं न अदन्ति?
अथवा
वृत्तं यत्नेन संरक्ष वित्तमेति च याति च।
अक्षीणो वित्तत: क्षीणो वृत्ततस्तु हतो हत:।।
प्रश्ना: –
(क) किं यत्नेन संरक्षेद?
(ख) किम् एति याति च?
(ग) वित्तत: क्षीण: कथम्?
प्र.20 अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –(1×3=3)
[नाट्यांश चित्र में स्पष्ट नहीं है]

👉 Answer PDF 👈

Note – ऊपर दिया गया पेपर आपके school में नहीं आया है तो कोई बात नहीं आप वह पेपर को हमारे teacher को भेजे आपको answer भेज देंगे उस पेपर का हल करके सही उत्तर के साथ।

WhatsApp Group Join Now
Telegram Group Join Now

1 thought on “mp board 9th sanskrit varshik paper 2026”

Leave a Comment