mp board 9th sanskrit varshik pariksha paper 2026 imp. | एमपी बोर्ड 9वीं संस्कृत वार्षिक परीक्षा पेपर 2026 यह पेपर माध्यमिक शिक्षा मंडल भोपाल द्वारा एमपी के सभी school के छात्रों का समय सारणी जारी की जिसमें class 9th sanskrit ka paper 5 फरवरी 2026 को लिया जाना है। तो चलिए इस पेपर के लिए नीचे एक question paper answer के साथ आपको बताता हु।
कक्षा 9वीं वार्षिक परीक्षा, 2025-26
SANSKRIT (संस्कृत)
[Total No. of Questions: 23] | [Time: 03 Hours]
[Total No. of Printed Pages: 08] | [Maximum Marks: 75]
निर्देशा: –
(I) सर्वे प्रश्नाः अनिवार्याः सन्ति।
(II) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।
(III) सर्वेषां प्रश्नानां उत्तराणि संस्कृत भाषायां लेखनीयानि।
प्र.1 उचितं विकल्पं चित्वा लिखत – (1×6=6)
(i) “रामेण” इत्यत्र वचनम् अस्ति –
(I) एकवचनम् (II) द्विवचनम्
(III) बहुवचनम् (IV) कोऽपि नास्ति
(ii) “रमासु” इति पदे विभक्तिः अस्ति –
(I) प्रथमा (II) द्वितीया
(III) तृतीया (IV) सप्तमी
(iii) “फल” शब्दस्य प्रथमा बहुवचनम् भविष्यति –
(I) फलानि (II) फलेषु
(III) फलाभ्याम् (IV) फलात्
(iv) “गुरुणा” इति पदे विभक्तिः अस्ति –
(I) तृतीया (II) चतुर्थी
(III) प्रथमा (IV) पंचमी
(v) “अद्य रविवारः अस्ति” इत्यत्र अव्ययम् अस्ति –
(I) रविः (II) वासरः
(III) अद्य (IV) अस्ति
(vi) “विद्या माता इव रक्षति” अस्मिन् वाक्ये अव्ययम् अस्ति –
(I) विद्या (II) इव
(III) माता (IV) रक्षति
प्र.2 कोष्ठकात् चित्वा रिक्तस्थानपूर्तिः करणीयाः – (1×6=6)
(i) “गच्छतु” इत्यत्र …………………………………. धातुः अस्ति। (भू / गम्)
(ii) “लृट् लकारस्य” उदाहरणं …………………………………. अस्ति। (पठिष्यति / पठ)
(iii) “अपठत्” पदे …………………………………. पुरुषः अस्ति। (प्रथम / उत्तम)
(iv) “पश्यामः” इत्यस्मिन् पदे …………………………………. अस्ति। (एकवचनम् / बहुवचनम्)
(v) “उपस्थितः” इति पदे …………………………………. उपसर्गपदम् अस्ति। (उप / प्र)
(vi) “प्राचार्यः” इत्यत्र …………………………………. उपसर्गपदम् अस्ति। (प्र / प्रा)
प्र.3 शुद्ध वाक्य समक्षे “आम्” अशुद्ध वाक्य समक्षे “न” इति लिखत – (1×6=6)
(i) “मनोहरः” इति पदे दीर्घ संधि अस्ति।
(ii) “स्वागतम्” इति पदम् यण् सन्धेः उदाहरणम् अस्ति।
(iii) “जगदीशः” पदे व्यञ्जनसंधिः अस्ति।
(iv) द्विगु समासस्य उदाहरणम् “पञ्चवटी” इति अस्ति।
(v) “पीताम्बरः” इति पदे द्वन्द्वसमासः अस्ति।
(vi) “महापुरुषः” कर्मधारयसमासस्य उदाहरणं नास्ति।
प्र.4 युग्म मेलनं कुरुत – (1×6=6)
(क) मनोहरा – पूर्वं
(ख) पश्चात् – सुन्दर
(ग) सूर्योदयः – मृदुः
(घ) कठोरः – अरुणोदयः
(ङ) स्वर्ण – लुब्धा
(च) बालिका – काकः
प्र.5 एकपदेन उत्तराणि लिखत – (1×6=6)
(I) सरसाः रसालाः कदा लसन्ति?
(II) ‘भारतीयवसन्तगीतिः’ कविता कस्मात् ग्रन्थात् संकलिता?
(III) काकली गीत संग्रहः कस्य कवेः रचना अस्ति?
(IV) “श्रुत्वा” इति पदे कः प्रत्ययः?
(V) “आदाय” इति पदे कः प्रत्ययः?
(VI) वृक्षाः स्वयं कानि न खादन्ति?
प्र.6 कालः कस्य रसं पिबति? (2)
अथवा
सरोवराणां हानिः कदा भवति?
प्र.7 बालः कदा क्रीडितुम् अगच्छत्? (2)
अथवा
तपोदत्तः केन प्रकारेण विद्याम् अवाप्तुम् प्रवृत्तोऽभवत्?
प्र.8 जटायो! “पश्य” इति का वदति? (2)
प्र.9 आरुणेः मतानुसारं मनः कीदृशं भवति? (2)
अथवा
अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
प्र.10 विवदमानौ तौ द्वावपि कुत्र गतौ?
अथवा
बालकः कीदृशं चटकं अपश्यत्?
प्र.11 रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (केऽपि द्वे) (2)
(क) ग्रामे निर्धना स्त्री अवसत्।
(ख) सूर्योदयात् पूर्वम् एव बालिका तत्र उपस्थिता।
(ग) बालिका निर्धनमातुः दुहिता आसीत्।
प्र.12 अधोलिखितानि वाक्यानि कः कं प्रति कथयति लिखत – (केऽपि द्वे) (2)
(क) पुत्रिके! नाहं पापकर्मा करोमि।
(ख) भोः श्रेष्ठिन्! नास्ति दोषः ते।
(ग) अहं तुभ्यम् तण्डुलमूल्यम् ददामि।
प्र.13 अधोलिखित वाक्यानाम् वाच्य परिवर्तनं कुरुत – (केऽपि द्वे) (2)
(क) अहं पुस्तकं पठामि। (कर्मवाच्ये)
(ख) बालिकया गीतं गीयते। (कर्तृवाच्ये)
(ग) सः भवति। (भाववाच्ये)
प्र.14 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत। (2)
प्र.15 अधोलिखितेषु अशुद्ध कारकवाक्यानां शुद्धिः करणीया – (केऽपि द्वे) (2)
(क) गुरुं नमः।
(ख) वृक्षस्य पत्राणि पतन्ति।
(ग) अहम् पुस्तकं पठति।
प्र.16 प्रदत्त शब्दैः रिक्तस्थानपूर्तिः करणीया। (कोऽपि चत्वारः) (2)
(सतां, सिद्धं, आवश्यकता, आत्मानं, कालिदासस्य, चतुर्दश)
(क) “अभिज्ञान शाकुन्तलं” …………………………………. रचना अस्ति।
(ख) प्रयत्नेन किं न …………………………………. भवति।
(ग) परोपकाराय …………………………………. विभूतयः।
(घ) अहं तु …………………………………. विनोदयिष्यामि।
(ङ) माहेश्वर सूत्राणां संख्या …………………………………. अस्ति।
प्र.17 अधोलिखितानि वाक्यानि कथाक्रमानुसारण लिखत – (½x4=2)
(क) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।
(ख) मल्लिका पूजार्थं मोदकानि रचयति।
(ग) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं गच्छति।
(घ) उभौ नन्दिन्याः सर्वविधपरिचर्यां कुरुतः।
प्र.18 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत – (3)
तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्याः अपि एका पुत्री आसीत्। ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यं ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तथापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्।
प्रश्नाः –
(क) कस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्?
(ख) स्वसुता किमर्थं नियुक्ता?
(ग) सा तस्य स्वर्णकाकस्य किम् ज्ञातवती?
अथवा
स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेन एव नाशः भवति।
प्रश्नाः –
(क) स्वल्पलाभाय जनाः कानि नाशयन्ति?
(ख) जनाः केषां विषाक्तं जलं नद्यां निपातयन्ति?
(ग) “भवति” इत्यस्मिन् पदे कः पुरुषः अस्ति?
प्र.19 अधोलिखित पद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत – (3)
पिबन्ति नद्यः स्वयमेव नाम्भः,
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः।।
प्रश्नाः –
(क) काः स्वयस्य अम्भः न पिबन्ति?
(ख) वृक्षाः स्वयं किं न खादन्ति?
(ग) “परोपकाराय” इति पदे का विभक्तिः अस्ति?
अथवा
गुणा गुणज्ञेषु गुणा भवन्ति,
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः,
समुद्रमासाद्य भवन्त्यपेयाः।
प्रश्नाः –
(क) गुणाः केषु गुणाः भवन्ति?
(ख) के निर्गुणं प्राप्य दोषाः भवन्ति?
(ग) “प्राप्य” इत्यस्मिन् पदे कः प्रत्ययः अस्ति?
प्र.20 अधोलिखित नाट्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत – (3)
श्वेतकेतुः – भगवन्! वन्दे श्वेतकेतुः अहम्।
आरुणिः – वत्स! चिरञ्जीव।
श्वेतकेतुः – भगवन्! ज्ञातुम् इच्छामि किम् इदम् मनः?
आरुणिः – वत्स! असितः अन्नस्य यो अणिष्ठः तत् मनः।
श्वेतकेतुः – भगवन्! का इयं वाक्?
आरुणिः – वत्स! असितस्य तेजसो यो अणिष्ठः सा वाक्।
प्रश्नाः –
(क) भगवन्! वन्दे इति कः वदति?
(ख) असितः कस्य यो अणिष्ठः तत् मनः?
(ग) “वन्दे” इति पदे कः लकारः अस्ति?
अथवा
पुरुषः – भोः तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? का आवश्यकता शिलानाम्? सिकताभिः एव सेतुं करिष्यामि स्वसङ्कल्पदृढ़तया।
तपोदत्तः – आश्चर्यम्! किम् सिकताभिरेव सेतुं करिष्यसि? सिकताः जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
प्रश्नाः –
(क) “किम् सिकताभिः एव सेतुनिर्माणं करिष्यसि”? इति कः कथयति?
(ख) काः जलप्रवाहे न स्थास्यन्ति?
(ग) शिलानाम् आवश्यकता किमर्थं भवति?
प्र.21 अधोलिखित अपठित गद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत – (4)
सम्प्रति सम्पूर्ण विश्वे भयङ्करः संकटः “आतङ्कवादः” इति अस्ति। सर्वेषु देशेषु आतङ्कवादेन जनाः पीडिताः सन्ति। आतङ्कवाद कारणात् विश्वस्तरे विनाशस्य ताण्डवः जायते। अनेन निर्दोषाः जनाः मृत्युं प्राप्नुवन्ति, महिलाः विधवाः जाताः, बालाश्च अनाथाः भवन्ति। भारतदेशः तु आतङ्कवादेन अनेकैः वर्षैः पीडितः वर्तते। एताः समस्यासमाधानाय सर्वैः देशैः मिलित्वा प्रयत्नाः करणीयाः।
प्रश्नाः –
(क) अद्य विश्वस्य भयङ्करः संकटः कः अस्ति?
(ख) कस्मात् कारणात् विश्वस्तरे विनाशः अभवत्?
(ग) सर्वैः देशैः मिलित्वा इदानीं किं करणीयम्?
(घ) आतङ्कवादसमस्या कारणात् के अनाथाः अभवन्?
प्र.22 स्वप्राचार्यस्य कृते अवकाशार्थं प्रार्थनापत्रं लिखत। (4)
प्र.23 अधोलिखितेषु एकं विषयं स्वीकृत्य संस्कृतभाषायां निबन्धं लिखत – (4)
(क) महाकविः कालिदासः
(ख) उद्यानम्
(ग) संस्कृतभाषायाः महत्त्वम्
(घ) पर्यावरणम्
Disclaimer – ऊपर दिया गया प्रश्न को महत्वपूर्ण प्रश्न और जो अक्सर परीक्षा में पूछे जाते है वह बताए गए है। इस पेपर को रियल पेपर न समझे लेकिन रियल पेपर का सही उत्तर के साथ पेपर इसी website पर answer के साथ अपलोड किया जाएगा। इस लिए प्रत्येक update और अपलोड होने पर आपको notification आए तो नीचे दिए गए WhatsApp और telegram चैनल को ज्वाइन करें।
Mukhe urdu ka pepper dekhna he our sabhi pepper shuru hone se pahle chahiye okk..